OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, July 2, 2018

मुम्बई नगरे  पतितस्य विमानस्य अन्तिमं डयनं दशवर्षात् पूर्वम् अभवत्।
     मुंबई> गतदिने मुंबई नगरे पतितस्य  विमानस्य अन्तिमं डयनं दशवर्षपूर्वम् आसीत्। एवं इदानीं विमानस्य डयनानुमतिः नास्तीति च प्रस्तावः। गतगुरुवासरे किङ् एयर्  सी ९० विमानं पतितमासीत्। उत्तरप्रदेश -सर्वकारस्य विमानं २००८ तमे वर्षे फेब्रुवरी मासे अन्तिमतया डयितम्। अनन्तरं २०१४ तमे वर्षे  महाराष्ट्रस्य यु वै एवियेषन् द्वारा विमानमिदं स्वीकृतम्। गतसार्थैकवर्षे अस्मिन् निर्माणप्रवर्तनानि प्रचलितानि आसन्। अनन्तरं कृते प्रथमे डयने एव विमानं पतितम्। किन्तु अधिकृतानाम् अनुज्ञां  विना डयनं जातमिति आवेदनमस्ति।

     नियमान् अनुसृत्य परीक्षणडयनात् पूर्वं डयनक्षमतायाः प्रमाणपत्रं अधिकृतेभ्यः स्वीकरणीयम् इत्यस्ति। किन्तु सः प्रक्रमः अत्र न पालितः।  गुरुवासरे विमानदुर्घटनायां वैमानिकेन सह पञ्च जनाः हताः।