OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, February 10, 2019

संस्कृताध्यापक मेलनं सुसम्पन्नम्
-बिजिला किषोरः
  कोष़िकोड् >  केरल-संस्कृताध्यापक फेटरेषन् दलस्य कोष़िकोड् जनपदस्य वार्षिकसम्मेलनं कुन्नमङ्गलं व्यापारभवने सुसम्पन्नम्। कार्यक्रमेस्मिन्  केरलसाहित्य अक्कादमी पुरस्कारजेता श्री वि सुधीर् महोदयः उद्गाटनमकुर्वन्। गुरोः गुरुः आत्मज्ञानमिति सः अवोचत। राज्यस्तरीय विद्यालयकलोत्सवे  Agrade प्राप्तवन्तः छात्राराः सम्मानिताः। संस्कृतक्षेत्रे कृताय योगदानाय श्री नारायणमहोदयाय पुरस्कारं दत्तम्। अध्यापकदलस्य राज्यस्तरीय अध्यक्षः श्री अजित् प्रसाद् महोदयः मुख्यभाषणमकरोत्। श्री अजित्, श्री सुजीशः, श्री बिजु काविल्, श्री श्रीधरः, श्री सि.पि सुरेश् बाबु च भागमवहन्। पञ्चाशदधिकाः अध्यापकाः भागं स्वीकृतवन्तः।