OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, February 2, 2019

केन्द्रसर्वकारस्य आयव्ययपत्रं  जनप्रियं ; निर्वाचनोन्मुखम्।
 नवदिल्ली >  केन्द्रमन्त्रिणा पीयूष् गोयल वर्येण अवतारितं मध्यकालीनम् आयव्ययपत्रं आसन्नभाविनि वर्तमानं लोकसभानिर्वाचनं लक्ष्यीकृत्य सज्जीकृतमित्यतः जनप्रियं वर्तते। मध्यवर्तिजनाः, कृषकाः, भृतिभुजः इत्यादिजनान् केन्द्रीकृत्य कृतैः प्रख्यापनैः मतदानमेव लक्ष्यमिति स्पष्टं भवति।
   कृषकाणां कृते प्रतिसंवत्सरं ६०००रूप्यकाणां धनसाहाय्यरूपः 'प्रधानमन्त्री किसान् सम्मान् निधिः' , असंघटितानां कर्मकराणां कृते दीयमानः भूतपूर्वसेवाभृतिः , धेनुसंरक्षणाय उद्दिष्टा राष्ट्रिय कामधेनु आयोजना इत्यादीनि मुख्योद्घोषणानि भवन्ति।
   राष्ट्ररक्षामण्डलाय त्रिलक्षं कोटि रूप्यकाणां स्थानदानं इतःपर्यन्तं बृहत्तमं विहितमस्ति।येषां पञ्चलक्षं रूप्यकाणाम् आयः अस्ति, ते आयकरात् विमुच्यन्ते। एवम् आयव्ययपत्रं मध्यकालीनमपि जनप्रियं कृत्वा लोकसभानिर्वाचनम् अभिमुखीकर्तुं सर्वकारः सिद्धः भवति।