OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, February 8, 2019

४५० आतङ्कवादिनः काश्मीरं प्राप्तवन्तः इत्यावेदनम्।
   उदयपुरम् > सीमानम्  उल्लङ्घ्य आगताः आतङ्कवादिनः आक्रमणाय सज्जताम् एति इत्यावेदनम्। पाकिस्थानस्य साहायेन  पञ्चाशतधिकचतुश्शतं (४५०) आतङ्कवादिनः आक्रमणाय सज्जो भूत्वा तिष्ठन्तः सन्तीति सूचना लब्धा इति सैनिकमहानिर्देशकः रणबीरसिंहः अवदत्। आतङ्कवादिभिः पाकिस्थानेषु  अधिनिविष्ठकाश्मीरेषु च षोडश (१६) शिबिराणि अयोक्षितानि सन्ति इत्यस्ति आवेदनम्I 
      काश्मीरस्य  सानुप्रदेशे उपचतुशतम् आतङ्कवादिनः प्रवर्तन निरताः सन्तीत्यपि  रणबीरसिंहः अवदत्। सीमायां पाक् सैनिकाः अतङ्कवादिनां कृते साहायं कुर्वन्तः सन्ति। गतपञ्चसंवत्सराभ्यन्तरे भारतसैनिकैः आहतेषु ८३५ आतङ्किषु ४९० जनाः पाकिस्थानिनः आसन् इत्यपि सः अवदत्।