OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, February 26, 2019

भारतस्य प्रत्याक्रमणे जैषे इ भीकरदलस्य त्रयः नियन्त्रणालयाः भग्नाः। ३०० आतङ्किजनाः मृताः।
-बिजिला किषोरः
  काश्मीरम्> पुल्बम भीकराक्रमणस्य प्रत्याक्रमणरूपेण सोमवासरे भारतेन आतङ्कवादिनां शिबिराणि आक्रमितानि। जैषे इ मुहम्मद् भीकराणां त्रयः नियन्त्रणालयाः आक्रमणेन भग्नाः। ३०० आतङकिनः हताःI १२ मिराज् २००० युद्धविमानान् उपयुज्य आसीत्  भारतसेनायाः प्रत्याक्रमणम्। बालकोट्, चकोट्टि, मुसाफिर् बाद्‌देशेषु विद्यमानेषु आतङ्कवादिनां शिबिरेषु आसीत् विस्फोटकवर्षणम्। ५० किलोमीट्टर् दूरं व्योमसीमाम् उल्लङ्ख्य आसीत् विस्फोटकप्रयोगः।
     पुल्वाम आक्रमणानन्तरं प्रत्याक्रमणं प्रतीक्ष्यमाणा  पाकिस्थानसेना सीमायां प्रतिरोधाय श्रद्धालुः स्यात् इति मनसि निधाय आसीत् प्रत्याक्रमणम् । भारतसमयः ३:३० वादने आसीत् भारतस्य सुसज्जं प्रत्याक्रमणम्।