OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, February 23, 2019

नरेन्द्रमोदी 'सियूल्
 शान्तिपुरस्कारेण' सम्मानितः।
नरेन्दमोदी सोल् शान्तिपुरस्कारं स्वीकरोति। 
सियूल् >  दक्षिणकोरियाराष्ट्रस्य 'सियूल्  प्रैस् फौणडेषन्' संस्थया  दीयमानः २०१८ संवत्सरस्य शान्तिपुरस्कारः भारतस्य प्रधानमन्त्रिणा नरेन्द्रमोदिना स्वीकृतः।  कीर्तिफलकेन सहितं लक्षद्वयं डोलर् भवति पुरस्कारः। संख्या 'नमामि गङ्गा' आयोजनायाः कृते समर्प्यते इति प्रधानमन्त्रिणा प्रस्तुतम्।
   अन्ताराष्ट्रसहवर्तित्वाय आगोलार्थिकमानविकविकासेभ्यः प्रधानमन्त्रिणा दत्तानि योगदानान्येव तं सियूल्  शान्तिपुरस्काराय अर्हतामकुर्वन्। पुरस्कारो$यं भारतीयानां कृते समर्प्यत  इति प्रधानमन्त्रिणा उक्तम्। गतैः पञ्चभिः संवत्सरैः भारतेन प्राप्तानि लाभानि सर्वाणि जनानाम् इच्छाशक्तेः फलमिति तेन सूचितम्।