OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, February 20, 2019

उत्तराखंड- चम्पावतजनपदम्। राट्रिय सेवा योजनायाः शिबिरस्य आयोजनम्।
आवेदनम् - अमित् ओली
    प्रतिवर्षस्य भाँति अस्मिन् वर्षेऽपि राजकीयं इण्टर कॉलेज खेतीखान- राष्ट्रिय सेवा योजनायाः शिबिरस्य आयोजनं N.S.S. योजनायाः कार्यक्रमः, अधिकारी कविन्द्र सिंहः बरफालस्य सानिध्ये आरम्भोऽभवत्, वर्षेऽस्मिन् सप्तदिवसीयः विशेष शिबिरस्यायोजनं ओलीग्रामे अभूत्, एकादश-कक्षायाः सर्वे पञ्चाशत् छात्राः सप्तदिवसात् गृहात् दूरं भूत्वा, शिबिरे निवासङ्कृतवन्तः तथा च तत्र वृक्षारोपणे, स्वच्छता कार्ये, सामाजिक कार्यैन्येषु कार्येषु च योगदानङ्कृतवन्तः। समेषां छात्राणां विभाजनं, पञ्च भिन्नेषु दलेषु प्रतिदश जनानां समूहेषु अभवत्। एतेषु सप्तदिवसेषु छात्रान् ज्ञानवर्धकसूचना प्रदत्ता। सर्वान् छात्रान् दिनचर्यायाः अनुपालनं करणाय प्रेरितङ्कृतम्। सप्तदिवसपर्यन्तं एते पूर्णं समर्पणभावेन गृहं प्राप्य स्वच्छता अभियानाय कार्यं कृतवन्तः, यत्र कुत्रापि अवकरं दृष्टवन्तः, ते स्वयमेव स्वच्छं कृतवन्तः। नदीनां देवालयानां स्वच्छता तु एते शिविरकालैव कृतवन्तः। सप्तदिवसेषु शिबिरेऽस्मिन् छात्राः बहु किमपि ज्ञातवन्तः ज्ञानार्जनं कृतवन्तः। 
      सप्तदिवसेषु प्रतिदिनं बौद्धिकं सत्राणि प्रचालितानि आसन्। यस्मिन् बालानां कृते उपयोगीविषयाः आसन्।  N.S.S. कार्यक्रमस्य आरम्भः कवीन्द्रसिंह बरफालेन छात्रैः द्वारा सरस्वती वन्दनायाः माध्यमेन कृतम्। अस्य शिबिरस्य मुख्यातिथिः माननीय नवीनेन दीपप्रज्जवलनं सम्पादितम्। शिबिरस्य प्रथमे दिवसे सर्वे ग्रामीणाः शिबिरे आगत्य छात्राणां उत्साहवर्धनं कृतवन्तः। संदीपः कलखुडिया वर्यस्य दिशा-निर्देशने सामाजिककार्याय प्रतिदिनं छात्राणां प्रशिक्षणमभवत्। शिबिरस्य अन्तिमे दिने समापनसमारोहे विशिष्टातिथिः रूपेण प्रियंका गड़कोटी वर्या छात्रान् धन्यवादं ज्ञापितवती।