OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, February 14, 2019

शीर्षन्यायालयस्य आदेशः कर्मकरौ पुनर्लेखनं कृतवन्तौ। न्यायाधीशेन तौ निष्कासितौ।
   नव दिल्ली> अनिल् अम्बानि इत्यनेन संबद्धे न्यायपीठ-अलक्ष्ययाचिकायां न्यायालयेन कृतादेशः पुनर्लेखनं कृत्वा प्राकाशयत् इति कुकर्मणा द्वौ कर्मकरौ निष्कासितौ। भारतसंविधानस्य विशेषाधिकारमुपयुज्य कोर्ट्मास्टर् इति पदे विराजमानौ मानव शर्मा , तपन कुमार चक्रवर्ती इत्याख्यौ एव निष्कासितौ। द्वावपि उपपञ्जीकरणाधिकारिणः समानस्थानयोः विराजमानौ आस्ताम्। बुधवासरे सायं मुख्यन्यायाधीशेन रञ्जन् गोगोय् वर्येण प्रक्रमः स्वीकृतः।
    'रिलयन्स् जियो' विरुद्ध्य 'एरिक्सण् इन्द्य' इत्यस्य याचिकायाम् अनिल अम्बानी साक्षात् आगन्तव्यम् इत्यादेशः न आगन्तव्यम् इति परिवर्त्य लिखितवन्तौ एतौ ।