OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, February 9, 2019

प्रतिमायाः कृते सार्वजनिक भण्डागारतः व्ययीकृतं धनं प्रत्यर्पणीयम्- शीर्षन्यायालयः।
    नव दिल्ली> लख्नौ नोयिडा नगरयोः विविध भागेषु गजप्रतिमा स्थापनाय  सार्वजनिक भण्डागारतः  व्ययीकृतं धनं स्वस्य पार्श्वतः एव प्रत्यर्पणीयमिति शीर्ष न्यायालयेन आदिष्टम्। बी एस् पी नेतृणी मायावती भवति न्यायालयेन आदिष्टा राजनैतिकनेतृणी। सार्वजनिक धनं राजनैतिकं लक्ष्यम् उद्दिश्य व्ययीकृतम् इत्यारोप्य  निवेदितायां याचिकायामेव न्यालयस्य निर्णायः।
    बि एस् पी इति दलस्य चिह्नः भवति गजः। गजप्रतिमां विहाय स्वकीयाप्रतिमाऽपि मायावत्या राज्यभण्डागारात् व्ययीकृत्य निर्मिता अस्ति। अस्याः प्रवृती कदापि न्यायी कर्तुं शक्यते इति मुख्यन्यायाधीशस्य रञ्जन् गोगोय्-वर्यस्य अध्यक्ष्ये विद्यमानेन न्यायपीठेनोक्तम्।