OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, February 15, 2019

जम्मुकाश्मीरे ४४ सैनिकानां वीरमृत्युः 
      श्रीनगरम्> विगते गुरुवासरे राष्ट्रे आपन्नेषु महत्या  भीकराक्रमणः आसीत्  पुल्वाम प्रदेशे दुर्भूतः। ४४ सि आर् पि एफ् सैनिकाः वीरमृत्युं प्राप्ताःसंख्याधिकाः क्षताः। २५४७ सैनिकेन सह गतानां यानव्यूहानां प्रति आत्मघातिना आक्रमणं कृतम्।  पाकिस्थानम्  आस्थानं कृत्वा प्रवर्तमानः  जैषे मुहम्मद् इति भीकरदलम् आक्रमणस्य दायित्वं स्वीकृतम्।
    उग्रस्फोटनेन बस्यानम् केवलं लोहखण्डः इति परिणितः। शरीरभागाः  आक्रमणस्थलं परितः प्रसृताः। २०१६ संवत्सरे  उरि सेनाशिबिरम् आक्रम्य २३  सेनान्यः हत्यानन्तरं जम्मुकाश्मीरे प्रवृत्ते बृहदाक्रमणः भवति अयम्। सैनिकानां ७८ यानानां व्यूहस्य मध्ये जैषे भीकरः आदिल् अहम्मद् इत्याख्यः विस्फोटकान् निभृतं यानम् अतिशीघ्रं चालयित्वा एव अपघातः कृतवान्। ३५० किलोमितेन विस्फोटकेन अवन्तिप्पोरा मार्गे आसीत् आक्रमणम् ।