OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, February 15, 2019

मूल्ययुक्तस्य समाजस्य सृष्टये सर्वैः संस्कृतभाषा पठनीया - नगरसभाध्यक्षः टि एल् साबुः ।

     सुल्त्तान् बत्तेरी /केरलम्>  संस्कृतभाषायां कश्चित् अनिर्वचनीयः  शक्तिः वर्तते इत्यतः सद्गुणयुक्तस्य समाजस्य सृष्टये सर्वैः छात्रैः संस्कृतभाषा पठनीया इति वयनाट् जनपदस्य सुल्तान् बत्तेरी नगरसभायाः अध्यक्षेण टि एल् साबु वर्येणोक्तम्। केरलसंस्कृताध्यापकफेडरेषन् नामकस्य संस्कृताध्यापकानां संघनटस्य ४१ तमं राज्यस्तरीयं सम्मेलनम् उद्घाटनं कुर्वन् भाषमाणः आसीत् सः। असंस्कृतं मृत्पिण्डं यथा कश्चन शिल्पी सुन्दरं मूल्ययुक्तं च शिल्पं रचयति तथा एव कश्चनाध्यापकः बालकं छात्रं समाजाय उत्कृष्टगुणैर्युक्तं पौरं कर्तुं सर्वथा दायित्वयोग्यः भवति । यतो हि समाज्य रूपकल्पना कक्ष्याप्रकोष्ठायामेव सम्भवति।
     उद्घाटनोपवेशने प्रदेशस्य प्रमुखः सहकारी नीतिज्ञः पि वेणुगोपालः अध्यक्षपदमलङ्करोति स्म। सर्वासां भारतीयभाषाणां मातृत्वत्वेन वर्तमानां संस्कृतभाषां केवलम् अध्यापकवृत्तिम् अतिरिच्य इतरेषु आधुनिकेषु मण्डलेषु प्रयोक्तुं शक्नुयादिति तेनोक्तम्। 
     सम्मेलने अस्मिन् फेडरेषन् संस्थायाः राज्यस्तरीयनेतारः पि पद्मनाभः, पि एन् मधुसूदनः, पि जि अजित् प्रसादः, सि पि सनल् चन्द्रः इत्येते , इतरे अध्यापकसंघटनानेतारः एन् ए विजयकुमारः [के एस् टि ए], पि एस् गिरीष्कुमारः [के पि एस् टि ए], षौक्कमान् के पि [के एस् टि यू] इत्येते च सन्निहिताश्चासन्।