OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, February 1, 2019

काश्मीरे हिमपातस्य कारणेन सप्ताहद्वयेन मार्गाः अवरुद्धाः, 270 जनाः आकाशमार्गेण प्रेषितवन्तः
-साक्षी चौरसिया

  श्रीनगरम्> बांदीपोरास्थाने द्विशतं यात्रिकाः गुरेजहेली इति सेवायाः माध्यमेन प्रेषिताः। कुपवाड़ां, बांदीपोरां प्रति गच्छन्तः  सर्वे मार्गाः गत-द्विसप्ताहेषु अवरुद्धाः सन्ति। श्रीनगरं, उत्तरीकाश्मीरे कुपवाड़ां, बांदीपोराञ्च प्रति गच्छन् सर्वे मार्गाः हिमपातेन कारणेन गत-सप्ताहद्वयेन अवरुद्धाः सन्ति। सीमायां स्थितैः दूरदूरस्थैः ग्रामैः सह सम्पर्कः अधुना नास्ति। केवलं तङ्गधारं प्रति गच्छन् मार्गः एव प्रचलितमस्ति। सर्वकारस्य प्रवक्तानां कथनमस्ति यत् श्रीनगरं, बांदीपोरायां अवरुद्धाः द्विशतं यात्रिकाः गुरेजहेली इति सेवायाः माध्यमेन सुरक्षितेषु स्थानेषु प्रेषिताः।

     उत्तरीकाश्मीरे प्रातः पुनः हिमपातः बुधवासरे प्रातः उत्तरीकाश्मीरस्य कुपवाड़ा, बांदीपोरा अपि च बारामुला स्थानेषु पुनः हिमपातोऽभवत्। मानसूनविभागस्य कथनमस्ति यत् आगामी दिवसद्वयोः एतेषु स्थानेषु हिमपातेन सह वर्षायाः सम्भावनाऽपि प्रतीयते।

    संस्थायाः सूत्राणां कथनमस्ति यत् आरक्षकैः (Police control room) एतेषामनुसारेण कुपवाड़ा-तङ्गधारस्य मार्गे पतितः हिमः मङ्गलवासरे अपसारितः। बुधवासरे वाहनानां गमनागमनाय मार्गाः उद्घाटिताः। आरक्षकानां कथनमस्ति यत् यदि हिमपातः अधिकः भविष्यति तर्हि मार्गाः पुनः अवरोधितुं शक्यते।