OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, February 14, 2019

देशस्य तृतीया महिला assistant comandante इति पदे नियुक्ता भूत्वा देशं गौरवान्वितं कृतवती—
-साक्षी चौरसिया
    संजयः निधिः, हिसारः> बालिकाः सहृदयाः भवन्ति। सौम्याः भवन्ति।.... परञ्चेततर्द्धसत्यमस्ति। ताः साहसी अपि भवन्ति। शौर्याः सन्ति। एवरेस्ट पर्यन्तं यान्ति। संतोषयादवेन आरभ्य शिवाङ्गी पाठकपर्यन्तम्। पर्वतारोहणेन, क्रीडासु स्वर्णिमप्रदर्शनेन सह दीर्घसंख्यायां प्रतिभागं कुर्वत्यः सन्ति। अर्द्धसैन्यबलेषु तु प्रभावशालिसु भूमिकायां सन्ति। हरियाणाराज्यस्य सोनीपतजनपदे सैक्टरद्वादशस्य निवासी सौम्या एकमुदाहरणमस्ति।
   सौम्यां बीएसएफ मध्ये हरियाणाराज्यस्य प्रथमा तथा च अखण्डभारतवर्षस्य तृतीया महिला assistant comandante इत्यस्य गौरवं प्राप्तमभवत्। बाल्यकालातेव सेनायाः आकांक्षी सौम्यया, 2016-तमे वर्षे मुरथलस्थितः दीनबन्धुः छोटूराम विज्ञानस्य एवञ्च प्रौद्योगिकी विश्वविद्यालयात् सङ्गणकविज्ञानस्य, इंजीनियरक्षेत्रे बीटेक एवञ्च संघलोकसेवा आयोगस्य परीक्षां लिखित्वा प्रथमप्रयासैवोत्तीर्णङ्कृतम्। तथा च ग्वालियर्टेनकपुरे स्थितः बीएसएफ अकादम्यां प्रशिक्षणाय गता। गत बुधवासररे आयोजिते दीक्षा-समारोहे सौम्या, स्वॉर्ड ऑफ ऑनर सम्मानेन अपि सम्मानिता अभवन्।