OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, February 4, 2019

यूनां कृते विज्ञानस्य, समाजस्य संस्कृतेश्च  समावेशः भवतु — प्रो॰ बलरामसिंहः

-साक्षी चौरसिया
   नवदेहली> यूनां कृते विज्ञानस्य, समाजस्य संस्कृतेश्च समावेशः इति विषयमधिकृत्य प्रो॰ बलरामसिंहेन व्याख्यानं कृतम्। देहल्याः मिराण्डाहाऊस् महाविद्यालये  आयोजिते "द्वाविंशतितमं सङ्युक्ता-चौधरी" इति स्मृतिव्याख्याने संस्कृतस्य वैज्ञानिकं स्वरूपं तथा च महत्तां प्रकटितम्। प्रसङ्गेऽस्मिन् विभिन्नतर्कैः सह विभिन्नानां पुस्तकानां विषयेऽपि छात्राः बोधिताः। येन माध्यमेन वर्तमानसमये यूनां कृते विज्ञानस्य संस्कृत्योश्च मध्ये सम्बन्धं स्थापयितुं शक्नुमः।

   तेनोक्तं यत् न्यायदर्शनान्तर्गते तर्कसंग्रहे नवद्रव्याणाम् उपस्थितिः मन्यते। यस्य साक्षात् सम्बन्धः भौतिकविज्ञानेन सह अस्ति। अर्थात् आधुनिकयुगस्य वैज्ञानिकतायाः सम्बन्धः साक्षात् वैदिक प्रमाणैः सह अस्ति। एतत् सर्वं वेदेषु पूर्वोक्तमस्ति। यदि वयं वेदवाक्यानि त्यक्त्वा अपि पश्यामः तथापि सुश्रुतस्य शल्यचिकित्सा वैज्ञानिकतायाः अद्वितीयं प्रमाणमस्ति। आधुनिकसमये वैज्ञानिकैः क्रियमाणाः नित्यनूतनाः शल्यचिकित्साः सुश्रुतेन पूर्वमेव सिद्धं कृतम्।

  अग्रे प्रो॰ बलराममहोदयः अवोचत् यत् श्रीगणेशस्य स्वरूपं न केवलम् आध्यात्मिकम् अपितु भौतिक-दृष्टिकोणेन अपि ज्ञातुम् आवश्यकता वर्तते। तस्य बृहद् कर्णाभ्याम् उत्कृष्ट-श्रवण-शक्तिः प्रकटितः भवति। लम्बम् उदरम् अधिकग्रहणशक्तिं प्रकटयति। अपि च तस्य शुण्डा अस्मान् प्रेरयति यत् कीदृशमपि कार्यं भवेत् सदैव तत्परता भवितव्यम्। यदि वयम् उच्चशिक्षां, तीव्रविकासम् इच्छामः तर्हि अस्माकं चिन्तनं पञ्चाशत् वर्षेभ्यः अग्रे भवितव्यः।
   सभायामस्यां महाविद्यालयस्य संस्कृतविभागाध्यक्षा डॉ॰ रेखाअरोडा वर्यया सह विभिन्नमहाविद्यालयतः, संस्कृतभारतीतः आगताः पञ्चाशतधिकेकशतं(150) छात्र-छात्राः, शिक्षकाश्च उपस्थिताः अभवन्।