OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, February 24, 2019

केरले अग्निताण्डवः, बङ्गुलुरु नगरेऽपि आसुराग्निः।
   कोच्ची>  केरलराज्यस्य विविधप्रदेशेषु गतदिने महती अग्निबाधा सञ्जाता। जीवनाशः नाभवदपि कोटिशः रूप्यकाणां नाशनष्टाः अभवन्। केषुचित्स्थानेषु जनजीवनं दुस्सहममवर्तत। बङ्गुलुरु नगरे यलहङ्का व्योमसेनानिलयसमीपे व्योमप्रदर्शनकार्यक्रमाय सज्जीकृते यानोपस्थाने संवृत्तायामग्निबाधायां त्रिशतं कार् यानानि अग्निसात्कृतानि। 
   कोच्चीनगरसमीपे ब्रह्मपुरं प्रदेशे विद्यमानायां मालिन्यसंस्करणशालायां प्रवृत्ते वह्निग्रहणे  विषवायुलिप्तघनधूमण्डनेन २५ कि मी. विस्तृतप्रदेशस्थाः जनाः दुरितमन्वभवन्।  नगरहृदयस्थं 'मङ्गलवनं नामकमुपवनं ह्यः अनलभोजनमभवत्। वयनाट् जनपदे 'बाणासुरपर्वतः' वनाग्निबाधितो जातः। दशसहस्रं  एक्कर् परिमितानि तृणवनानि दग्धानि। 
   मैसूरु समीपस्थे व्याघ्रसंरक्षणकेन्द्रे तथा मुतुमला वन्यजीविसङ्केते च सञ्जाते वह्निव्यापने ६०० एकर् परिमिता वनभूमिः दग्धा।