OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, February 7, 2019

केदारनाथे शून्यतापात्  पञ्चदशडिग्रीतः न्यूनं तापमानम्। हिमघनीभूता काश्मीरः अपरः हिमामाचलः इति तर्क्यते ।
-साक्षी चौरसिया

   श्रीनगरम्/देहरादून्/शिमला> उत्तराखंडे सार्धेकादश फीट् उच्चैः स्थितः केदारनाथधामे तापमानं रात्रिः समये शून्यतापात् पञ्चदशडिग्री न्यूनं भवति। गतमासे तत्र हिमपातः अभूत्, तदनन्तरं यातायातः, विद्युत्प्रवाहः, इत्येते सर्वे स्थगिताः। सर्वत्र अष्ट फीट् पर्यन्तं हिमः घनीभूतः अस्ति। हिमाचले शीतलवायुः वाति। अपि च काश्मीरे हिमपातेन सह वर्षाऽपि अभवत्। अग्रे द्विदिवसयोः अपि हिमपातवर्षयोः सम्भावना व्यक्ता।
हिमपातेन मार्गाः बाधिताः
   केदारनाथे बहुवारं हिमपातः अभवत्। राम बाड़ा केदारनाथयोः मध्ये एवलॉन्च कारणेन पदातयः मार्गाः अवरूद्धः। बहूषु स्थानेषु विद्युत् स्तम्भाः अपि त्रुटिताः। वातावरणावेक्षण-विभागस्यानुसारेण, केदारनाथस्थाने पुनः हिमपातस्य सम्भावना सूचिता। अत्र संलग्नाः पञ्चाशत् कार्यकर्तारः हिमपातानन्तरं पुनः आहूताः। अधुना तत्र केचन कार्यकर्तारः एव संलग्नाः सन्ति।