OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, February 16, 2019

स्वयं प्रतिरोधाय भारतस्य अधिकारः अस्ति- यु एस्
   वाषिङ्टण् > आतङ्कवादान् विरुद्ध्य प्रतिरोधं कर्तुं  भीकरवादान्  मार्जनं कर्तुं च भारताय अधिकारः अस्ति। तदर्थं भारताय  समर्थनम् अस्ति इति  अमेरिक्क राष्ट्रेण निवेदितम्। पुल्वाम भीकराक्रमणस्य पश्चात् भारतस्य राष्ट्रियोपदेष्टारं दूरवाणिद्वारा आहूय्य यू एस्  राष्ट्रस्य राष्ट्रियोपदेष्टा जोण् बोल्टणः एव स्वस्य राष्ट्रस्य समर्थनम् ज्ञापितवान्।  आतङ्कवादिनं समर्थनं कृतवान्तं पाकिस्थानं एतादृशोद्यमाः स्थगयितुं निर्दिश्ये इति जोण् बोल्टणः अवदत्। यू एस् राष्ट्रस्य 'स्टेट् सेक्रट्टरि' मैक् पोंपियो च विषयेस्मिन् स्वस्य  राष्ट्रस्य भारताभिमुख समर्थनं कृतवानासीत् I भीकराणां कृते सुरक्षितस्थानं यच्छन् पाकिस्थानः लोकसुरक्षायाः भीषा इत्यपि तेन ट्वीट् कृतम्।