OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, February 26, 2019


 ओस्कार् पुरस्काराः उद्घुष्टाः - 'ग्रीन् बुक्' वरिष्ठचलनचित्रं, अल्फोण्सो कोरोण् श्रेष्ठः निदेशकः। 
 होलिवुड् >  ९१ तम ओस्कार् चलच्चित्रपुरस्काराः प्रख्यापिताः। पीटर् फारलि नामकेन संविधानं कृतं ग्रीन् बुक् इति चलच्चित्रं वरिष्ठचित्राय पुरस्कारं स्वायत्तीकृतवत्। 'रोमो' इत्यस्य चित्रस्य निदेशकः अल्फोण्सो कोरोण् श्रेष्ठः निदेशकः अभवत्।
  ओलीविया कोल्मान् नामिका 'दि फेवरिट्' इत्यस्मिन् चित्रे अभिनयेन श्रेष्ठनटिरूपेण पुरस्कृता। वरिष्ठनटस्तु रमी मालिक् नामकः , चित्रं - 'बोहीमियन् राप्सेड्'। पुरस्काराः उद्घुष्टाः - 'ग्रीन् बुक्' वरिष्ठचलनचित्रं, अल्फोण्सो कोरोण् श्रेष्ठः निदेशकः।