OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, February 8, 2019


ऐ एस् विषये अमेरिकराष्ट्रपत्युः निश्चयः, कथितम् एकसप्ताहेन भविष्यति निष्कासनम् -
-साक्षी चौरसिया
   वाशिंगटन, प्रेट > अमेरिकस्य राष्ट्रपतिः डाॅनल्ड-ट्रम्पस्य निश्चयः यत् अग्रिम सप्ताहात् इस्लामिक् स्टेट् आतंकी संगठनस्य इराक तथा सीरिया-देशतः पूर्णतः निष्कासनं भविष्यति। ऐ एस् संगठनेन सह स्पर्धाङ्कुर्वन् अमेरिकस्य पक्षदलीयः वैश्विक संगठनेन 2018 तमे वर्षे घोषितं यत् एतत् आतंकी संगठनम् इराक् तथा सीरियायाः मात्रमेक फीसदी क्षेत्रपर्यन्तं संक्षिप्तोऽभवत्। किन्तु तस्य अधिकारः अफ्गानिस्तानं, लीबिया, सिनाई तथा च पश्चिम अफ्रीकायाम्  अस्ति।
   बुधवासरे आई अ .एस संगठनं पराजयार्थं निर्मितं वैश्विक गठबन्धनस्य मंत्रिणां गोष्ठ्याम् उक्तं यत् “ ऐ एस् संगठनस्य समापनमभवत्, गठबंधनस्य सहयोगीदल तथा च सीरियाई दलाभ्यां सीरिया व इराकदेशे ऐ एस् संगठनस्य अधीनस्थः प्रायशः सर्वे क्षेत्राणि रिक्तानि अभवन्। इत्यस्य औपचारिकी घोषणा सम्भवतः आगामी सप्ताहे भविष्यति।
    अस्यां गोष्ठ्यां प्रायशः अशीतिः देशानां वरिष्ठराजनेतारः उपस्थिताः आसन्। ट्रम्पेनोक्तं यत् तस्य सहयोगीदलयोः मध्ये घनिष्ठसम्बन्धोऽभवत्। गत द्विवर्षयोः अमेरिक तथा सहयोगीदेशेन प्रायः विंशतिः सहस्र वर्गमील क्षेत्रेषु पुनः शतप्रतिशतं नियन्त्रणङ्कृतम्।