OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, February 21, 2019

उत्तरध्रुवस्य स्थानः सैबीरियं प्रति। कौतुकेन वैज्ञानिकाः
      वैज्ञानिकान् अत्भुत-स्तब्धान् कृत्वा भौमकान्तिकस्य उत्तरध्रुवस्य स्थानान्तरं भवति। भूमेः कान्तिकध्रुवः सङ्कल्पित स्थानतः  भ्रंशितः इति अधुनातन समस्या। कानड देशतः सैबीरियं प्रति गच्छन्नस्ति ध्रुवः।
भूकान्त-मण्डलाधारेण प्रवर्तमानः 'नाविगेषन्' इति सुविधाः त्रुटितविवरणानि दीयमानानि सन्ति। एतस्याः परिहाराय विंशत्युत्तर द्विसहस्रतमे निश्चितं लोक कान्तिक आदर्शमानकनवीकरणं अस्मिन् मासस्य चतुर्थ दिनाङ्के (२०१९ फ़ेब्रु. ४) कृतम्। महानौकायाः सञ्चारगतिः 'गूगिल् माप्'  इत्यस्य प्रवर्तनानि च  नूतनमानकानुसारेण करणीयं। जर्मानीय वैज्ञानिकेन काल् फ्रीड्रिक् गौस् (Carl Friedrich Gauss) इत्याख्येन भौमकान्तिक मण्डलस्य आधारः भूमेः अन्तर्भागे इति प्रथमतया अनुमितः (1830)। ब्रिट्टणस्य परीक्षकः जयिंस् क्लार्क् इत्याख्यः उत्तरकान्तिकध्रुवं कनेडियदेशस्य आर्टिक् मध्ये इति निश्चितवान्। (1831) तस्मिन् समये ध्रुवस्य स्थानभ्रंश गतिवेगः प्रतिसंवत्सरं १५ कि. मी आसीत्I इदानीं सः ५५ कि.मी इत्यस्ति।