OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, July 1, 2020

१५ राष्ट्रेषु पौराणां कृते यूरोप् संयुक्तराष्ट्रेण द्वाराणि उद्घाटयन्ति। अमेरिकः परित्यक्तः।
       ब्रसल्स्> कोविड्भीत्या मार्च्मासतः पिधानीकृताः राष्ट्रसीमाः जुलै प्रथम दिनाङ्कात् उद्घाटयितुम् यूरोप् संयुक्तराष्ट्रेण निश्चितः। रोगव्यापने न्यूनताजातेभ्यः राष्ट्रेभ्यः एव पौराणां प्रवेशनाय  अनुमतिः। कोविड्व्यापनमानं प्रतिदिनं वर्धमानः अमेरिकः पट्टिकायां नास्ति। कानडा जापान् ऑस्ट्रेलिया न्यूजीलैंड् उरुगाई अल्जीरिया जॉर्जिया मोरक्को सेर्बिया सौत्कोरिया ताईलैंड्, ट्यूनीशिया मोण्डिनग्रो रुवांडा चीनेत्यादिराष्ट्रेभ्यः पौराणां निर्णयानुसारेण प्रवेशः लभते। किन्तु यूरोपीय यात्रिकाणां चीनं प्रति प्रवेशः मा रुन्धि इति सन्ध्यनुशासनेन भवति चीनाय पट्टिकायां प्रवेशः। ब्रसीलः रष्या च पट्टिकायां नास्ति। सप्ताहद्वयानन्तरं पट्टिका नवीकरिष्यति इति यूरोप् संयुक्तसमित्या  ख्यापितम्।