OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, July 4, 2020

खालिस्थानस्य भीकरनेतारः इदानीं यावत्  उग्रदोषिणः। नव अतङ्किनः भारतस्य गृहमन्त्रालयेन पट्टिकायां निविष्टाः। 
     नवदिल्ली> खालिस्थानस्य  उग्रदोषिणः आतङ्किनः पट्टिकायां निविविष्टाः इत्यस्य कारणं केन्द्र-गृहमन्त्रालयेन विशदीकृतम्। विगते सप्ताहे विश्वस्य विविधभागेषु केन्द्रीकृताः खालिस्थानस्य आतङ्किनः  दोषिणां पट्टिकायां निविष्टाः  इत्यस्य विवरणमेव अधुना बहिरागतम्। एते नव आतङ्किनः पञ्जाबे आतङ्कवादस्य प्रचारं क्रियन्ते। राष्ट्रे अत्याचार प्रवर्तने निरताः, भारतं विरुद्ध्य प्रवर्तनानाम् आयोजनम् च तैः कृतानि दोषकर्माणि इति आरक्षकैः प्रत्यभिज्ञातम्। पाकिस्थानादयेषु राष्ट्रेषु उषित्वा ते प्रवर्तन्ते।
अन्ताराष्ट्रतले विद्यमानेन सन्ध्यनुसारेण एतेभ्यः कारागार दण्डं वा भारताय अर्पणं वा करणीयः। नियमानुसारं सतेषां स्थावर जंगम वस्तु धनादीनि बलात् स्वीकर्तुमपि शक्यते।