OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, July 9, 2020

कोविड् वैराणुः  मस्तिष्कं बाधते। सुषुप्तिरोगः भविष्यति इति वैज्ञानिकाः। 
कोरोण-वैराणुबाधया मस्तिष्कस्य क्षमता न्यूना भविष्यति इति वैज्ञानिकैः पूर्वसूचना प्रदत्ता अस्ति। रोगबाधितेषु  नाडीसम्बन्धतया  गुरुतररोगाः भविष्यन्ति। बुद्धिभ्रमः उन्मादः च भविष्यतः नाडीरोगवशात्  इति पूर्वसूचनायाम्  अस्ति। लन्टनस्य  विश्व-विद्यालयकलाशाला (UCL) ४३ कोविड्१९ रोगिषु कृते अध्ययने एव ईदृशम् अनुमानम्।   
१९१८- तमे आपन्ने 'स्पानिष् फ्लू' इति ज्वरानुबन्धतया ईदृशी अवस्था जाता आसीत्। कोविड्  रोगबाधायाः अनन्तरमपि ईदृशी अवस्था स्यात्  इति विद्यालयकलाशालायाः अनुसन्धाता मैक्कल् सान्टि अवदत्। एते स्वस्य परितः किं जायते इति अज्ञात्वा सुप्तो वा इत्यवस्थायां कालः यापयन्तः सन्ति। मानसिक-संवेदनक्षमता हीनाः भूत्वा कालं यापयन्तः इति भवति सुषुप्तिरोगः।