OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, July 5, 2020

संस्कृतप्रेमी प्रतिभावान् प्रदीप् प्रणवः सर्वासु परीक्षासु उन्नतस्थानं प्राप्तवान् ।
जार्खण्डस्य लोक् सेवा आयोस्य परीक्षायाम् आरक्षक सेवा विभागे  DYSP पदाय नियुक्तिनिर्देशः
       राञ्ची> जार्खण्डस्य लोक् सेवा आयोगस्य परीक्षायाम् आरक्षक सेवा विभागे  DYSP पदाय अस्य नियुक्तिनिर्देशः लबधः। एम् एस् सि, एम् फिल् परीक्षायाम् उन्नत अङ्काः प्रा प्राप्तवानयं दशम कक्ष्यापर्यन्तं संस्कृतं पठितवानासीत्।  कराटे आयोधन कलायां द्वितीयं पदं (karate second dan) प्राप्तवान्। डार्जिलिङ् देशे विद्यमानायाः हिमालय-पर्वतारोहक संसस्थायाः शिक्षणमपि सर्वोत्तमरीत्या अनेन सम्प्राप्तम्। हिमालयस्य १० श्रृङ्गान्  एषः विजितवान्। समुद्रतरणे अपि शिक्षितः एषः। NCC विभागतः रजतपदकः प्राप्तवानस्ति।
     कलारङ्गेऽपि एषः  निपुणः भवति। भारतस्य विदेशस्य च ४२ सङ्गीत उपकरणेषु प्रवीणः अस्ति एषः।
जारखण्डस्य  नागपुरि चल नचित्र मुद्रिकायाम् एष: अभिनेता अस्ति। दशवर्षाणि यावत् लोक आयोगस्य परीक्षायाः कृते यत्नं कुर्वन्नासीत् एषः।
       वित्तकोशे, बौद्धिकायोगे, आयकर विभागे च कर्मचारी रूपेण बहुवारं नियुक्तः अभवत्  एषः प्रदीप प्रणवः। अयं कर्मशाली प्रदीपः इदानीं साङ्ख्यकी एवं क्रियान्वय-मन्त्रालयस्य राष्ट्रिय प्रतिदर्श कार्यालयये सह अधीक्षण पदाधिकारि रूपेण वर्तमानः अस्ति।
     इदानीं विनाविलम्बं DYSP पदं प्राप्तुं सज्जः भवति एषः। तथाऽपि दशमी-कक्ष्यापर्यन्तं अध्ययनं कृतं संस्कृतं पुनरपि अध्येतव्यम् आचार्यपरीक्षायाम् उन्नतस्थानं प्रार्तव्यम् च इति अस्य नूतना अभिवाञचा।