OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, July 2, 2020

गाल्वनात् चीनः निवर्तिष्यते। 
गाल्वने चीनस्य सैनिकसान्निध्यम्। 
नवदिल्ली >  सीम्नि वर्तमानं विवादं परिहर्तुं भारत-चीनयोः 'कमान्डर्' स्थानीययोः चर्चा न फलप्रदा जाता। किन्तु गाल्वनाधित्यकातः 'होट् स्प्रिङ्' पर्यन्तं दीर्घीभूतेभ्यः पि पि १४ [गाल्वनं] , पि पि १५ [होट्स्प्रिंग्], पि पि १७ [गोग्रामः] इत्येतेभ्यः निरीक्षणस्थानेभ्यः [Patrolling Points] सैनिकान् निवर्तयितुं चीनेन अनुमोदितम्। पि पि १६ भारताधीनं वर्तते। 
  परन्तु पाङ्गोङ् तटाकः, डेस्पाङ्ग्, देम्चूक् नामकेभ्यः स्थानेभ्यः चीनसैनिकनिवर्तनं दुष्करमिति सूच्यते। 'ले'आस्थानकस्य १४तम कोर् सैनिकविभागस्य कमान्डर् पदीयः लफ्टनन्ट् जनरल् हरीन्दर् सिंहः 'दक्षिणषिङ् जियाङ्' सैनिकमण्डलस्य मेजर् जनरल् पदस्थः लियू लिन् इत्येषः  च 'चुषूल्' स्थाने भारताधीने शिबिरे [Outpost] चर्चां कृतवन्तौ। अस्यां चर्चायां क्रमानुगतं प्रतिपदं च निवर्तनाय सन्धिः कृतेति सूचना लभते।