OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, July 23, 2020

४५ राज्यसभासामाजिकाः सत्यशपथं कृतवन्तः। 
नवदिल्ली > विविधराज्येभ्यः नूतनत्वेन चिताः ४५ राज्यसभासदस्याः गतदिने सत्यशपथं कृत्वा पदं स्वीकृतवन्तः। राज्यसभाप्रकोष्ठे सम्पन्ने कार्यक्रमे उपराष्ट्रपतिः वेङ्कय्यनायिडुः शपथवाक्यमनुशिक्षितवान्। 
  नूतनतया ६१ अङ्गाः चिता अपि कोविडनुबन्धगमनागमननियन्त्रणेन केवलं ४५ सामाजिका एव दिल्लीं सम्प्राप्ताः। एषु ३६ प्रथमतया चिताः भवन्ति। 
  एन् सि पि नेता शरत्पवारः, केन्द्रसामाजिकक्षेममन्त्री रामदास् अठाव्ले, भा ज पा नेता ज्योतिरादित्यसिन्ध्यः , कोण्ग्रस् नेता मल्लिकार्जुन खार्गे, ए ऐ सि सि राष्ट्रियकार्यदर्शी के सि वेणुगोपालः इत्यादयः शपथं कृतवत्सु प्रमुखाः भवन्ति।