OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, July 18, 2020

केरले कोविड्बाधिताः ११सहस्रमतीताः।
प्रतिदिनव्यापनं ७००अधिकम्।
तिरुवनन्तपुरं जनपदे सामाजिकव्यापनम्। 
अनन्तपुरी > केरले कोविड्-१९ रोगस्य व्यापनं कतिपयस्थानेषु अतिरूक्षतया अनुवर्तते। ह्यः ७९१ जनेषु रोगबाधा दृढीकृता। रोगबाधितेषु ५३२ सम्पर्केण बाधिताः भवन्ति। दिनद्वयं यावत् प्रतिदिनव्यापनसंख्या सप्तशताधिका वर्तते। 
  राज्ये तिरुवन्तपुरं जनपदे पून्तुरा पुल्लुविला प्रदेशद्वये  सामाजिकव्यापनमभवदिति निर्णीतम्। राष्ट्रे प्रथमतया एव  सामाजिकव्यापनमभवदितति सर्वकारीयस्तरे दृढीकरणं कृतम्। राष्ट्रस्य बहुषु मुख्यनगरेषु रोगबाधितानां संख्या क्रमातीतेन उद्गता अपि ऐ सि एम् आर् संस्थया केन्द्रस्वास्थ्यमन्त्रालयेन वा सामाजिकव्यापने स्थिरीकरणं न कृतमासीत्। 
  आहत्य ११०६६ जनेभ्यः कोविड्रोगः बाधितः। अद्यावधि ४९९५ रोगिणः स्वास्थ्यभूताः जाताः। ३८ जनाः मृत्युवशं प्राप्ताः।