OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, July 4, 2020

लडाके भारतप्रधानमन्त्रिणः अप्रतीक्षितसन्दर्शनम् 
लडाके प्रधानमन्त्री सैन्यम् अभिसंबोधयति। 
सैनिकान् अभिसम्बुध्यमानः नरेन्द्रमोदी। 
लडाकः >  ह्यः भारतस्य प्रधानमन्त्री नरेन्द्रमोदी लडाकस्थे सङ्घर्षभरितप्रदेशे अप्रतीक्षितसन्दर्शनं कृतवान्। लडाकस्य राजधीनीभूतात् 'ले' इत्यस्मात् ३६ कि मी  दूरे वर्तमाने ११,००० पादपरिमिते उत्तुङ्गे वर्तमानं नीमूस्थं सैनिकास्थानं प्राप्तवान् नरेन्द्रमोदी सैनिकान् अभिसम्बुध्यमानः मातृराष्ट्रं परिरक्षतां सैनिकानां धैर्यं त्यागं च अनर्घमिति प्राकीर्तयत्। 
  संयुक्तसेनाध्यक्षः बिपिनरावतः, स्थलसेनाधिपः जनरल् एम् एम् नरवणे इत्येताभ्यां सह ह्यः प्रभाते आसीत् प्रधानमन्त्री लडाकस्थं 'ले' प्राप्तः। गल्वान् प्रतिद्वन्द्वे व्रणिताः सैनिकातुरालयस्थाः भटाः तेेन सन्दृष्टाः। 
  तदनन्तरं स्थल-व्योम-ऐ टि बि पि सैनाङ्गान् अभिसंबुध्यमानः प्रधानमन्त्री प्रोत्साहजनकैः उत्तेजकैश्च वाक्यैः राष्ट्रस्य सीमासंरक्षणे व्यापृतान् सैनिकान् अभ्यनन्दयत्। यं कमपि प्रतियोद्धुं भारतं सुसज्जमिति उद्घुष्य चीनाय शक्तां पूर्वसूचनामदात्।