OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, July 29, 2020

कोविड् - १.२८ लक्षं बालकाः बुभुक्षापीडया मृत्युं प्राप्स्यन्तीति आवेदनम्। 
जनीवा >  कोरोणा विषाणोः व्यापनं, तद्धेतुकनियन्त्रणानि इत्यादीनां हेतुतया महाव्याधेः प्रथमसंवत्सरे १.२८लक्षं बालकाः बुभुक्षापीडया मृत्युवशं प्राप्तुं साध्यता अस्तीति संयुक्तराष्ट्रसंघस्य आवेदनपत्रे सूच्यते। दौर्भिक्षमनुभूयमानाः प्रदेशाः आहारवैद्यसाहाय्यादिकं विना पृथक्भूताः इत्यनेन प्रतिमासं दशसहस्रं बालकाः मृत्युगताः वर्तन्ते इति संयुक्तराष्ट्रसभायाः नियुक्तपदैः संसूचितम्। 
   बालकेषु वर्धमाना पोषकाहारन्यूनता दीर्घकानीनप्रत्याघाते कारणाय भविष्यतीति ,वैयक्तिकदुरन्ताः परम्परादुरन्ते परिसमाप्स्यते इति च प्रक्सूचना दत्ता। विद्यालयानां पिधानं, प्राथमिकस्वास्थ्यपरिरक्षासेवानां स्थगितेन पोषकाहाराभियोजनानां स्थगनं च दौर्भैक्ष्यदुरन्तम् अभिवर्धयति।