OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, July 7, 2020

विश्वस्मिन् कोविड्बाधिताः १.१६कोटिः। 
वाषिङ्टणः> ह्यः आविश्वं कोविड्रोगबाधितानां संख्या एकलक्षाधिकायां प्राप्तायां निखिला संख्या १६ लक्षाधिकैककोटिं प्राप्ता। ह्यः मृत्युसंख्या द्विसहस्राधिका आसीत्। आहत्य मरणसंख्या ५,३८००० उपगच्छति। 
  यूू एस्, रूस्, मेक्सिको, इरानः, पाकिस्थानं, सौदी, बङ्लादेशः, इन्डोनेष्या, इराखः, फिलिप्पीन्स्, ओमानःइत्यादिषु राष्ट्रेषु रोगबाधा अधिकया दृश्यते। 
  पाकिस्तानस्य स्वास्थ्यमन्त्री  डो. सफर् मिर्सः कोविड्बाधित इति स्थिरीकृतम्। विदेशकार्यमन्त्री षा मह्मूदी खुरेषी इत्यस्यापि गतदिने कोविड् स्थिरीकृतमासीत्। पाकिस्थाने कोविड्बाधिताः २,३१००० अतीताः, ७६२ मरणानि च अभवन्।