OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, July 16, 2020

विदेशछात्राः यू एस् मध्ये अनुवर्तितुं शक्यन्ते। 
वाषिङ्टण् > यू एस् राष्ट्रे  'ओण् लैन्' अध्ययनस्य प्रचारे संवर्धिते वैदेशिकछात्रैः राष्ट्रं त्याज्यमिति ट्रमम्प् शासनस्य आदेशः निरस्यते। जूलाय् षष्ठे दिने विज्ञापितमादेशं निरस्तुं यू एस् राष्ट्रं सन्नद्धमिति बोस्टण् फेडरल् जनपदनीतिपीठस्य न्यायाधीशेन अलीसन् बरो इत्यनेन निगदितम्। भारतमभिव्याप्य लक्षशः विदेशीयछात्राणां कृते आश्वासदायकः भवत्ययं निर्णयः। 
  सेप्टम्बर्-डिसम्बर् सेमस्टर् अध्ययनं सम्पूर्णतया ओण्लैन् द्वारा आयोज्यमानेषु  विश्वविद्यालयेषु अध्ययनं कुर्वन्तः वैदेशिकछात्राः राष्ट्रं त्यजेयुः नो चेत् ते राष्ट्रान्निष्कासितव्याः भवेयुरिति  विदेशमन्त्रालयः जाग्रतासूचनां अकरोत्। एतां विरुध्य राष्ट्रे महान् प्रक्षोभः सम्पन्नः। राष्ट्रे विद्यमानाः प्रमुखाः विश्वविद्यालयाः अपि छात्राणाम् अनुकूलतया आगतवन्त आसीत्। तदनुसृत्य एव शासकैः निर्णयः परिवर्तितः।