OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, July 7, 2020

डोवल्-वाङ् यि चर्चा फलं प्राप्नोति - सीमायाः चीनस्य प्रतिनिवर्तनम्।
      नवदहली> चीनभारतयोः मध्ये सीमाविषये सञ्जातस्य तर्कस्य परिहारः भारतस्य देशीयोपदेष्टा अजित् डोवल् महाभागः चीनराष्ट्रस्य विदेशकार्यमन्त्रिणा वाङ्यि महोदयेन कृतया चर्चया जायमानः दृश्यते। शुभसूचकत्वेन सीमायाः तर्कभूमेः चीनस्य सैनिकसङ्‌घः प्रतिनिर्वतः इति वृत्तान्तः माध्यमलोकेन प्रकाशितः वर्तते। चीनस्य सैनिकसङ्‌घः तर्कभूमेः कि.मि द्वयं यावत् प्रतिनिवर्तः इति वृत्तान्तः आगतः वर्तते।डोवल्-वाङ्यि महोदययोः मध्ये संवृत्ता चर्चा घण्टाद्वयं यावत् अभवत्। चर्चेयं सौहृदात्मिका आसीत्, भाविकालेऽपि द्वयोरपि राष्ट्रयोः सीमनि नियन्त्रणरेखायां एतादृशप्रतिसन्धेः नियन्त्रणाय चर्चायां निर्णयः स्वीकृतः वर्तते - माध्यमलोकः अवलोकयति।