OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, July 2, 2020

भारतीयसङ्घेन विकसितं कोविड्१९ प्रति उपयोजकम् औषधं प्रयोक्तुम् अनुमतिः।
      नवदहली> कोविड्१९ प्रतिरोद्धुं  विकसितं उपयोजकम् औषधं मनुष्‍येषु प्रयोक्तुम् अनुमतिः। हैदराबाद्‌ मध्ये प्रवर्तमानेन भारत् बयोटेक् नामकेन सङ्घेन एव इदम् कोविड्१९ उपयोजकम् औषधं विकसितं वर्तते। इदम्प्रथमतया एव भारतीयौषधनियन्त्रणविभागात् मनुष्येषु कोविड्१९ उपयोजकौषधप्रयोगाय एकस्मै सङ्‌घाय अनुमतिः लब्धा वर्तते। औषधप्रयोगात् पूर्वं क्रियमाणानां पठनानाम् अवलोकनानां च आधारेण एव अनुमतिः दत्ता वर्तते। 'कोवाक्सिन् ' इति नामकरणं कृतस्य औषधस्य परीक्षणम् अस्मिन् मासे आरभ्यते। अधुना विश्वस्मिन् विविधैः सङ्घैः शताधिकं कोविड्१९ उपयोजकौषधपरीक्षणादिकं क्रियमाणं वर्तते।