OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, July 15, 2020

कोविड्व्यापनमनुदिनं वर्धते - केरले प्रतिदिनबाधा ह्यः ६०८।
सम्पर्कव्यापनम् अतिरूक्षम्। 
कोच्ची > केरलस्य प्रतिदिनकोविड्बाधा ह्यः षट्शतमतीता। ६०८ जनाः ह्यः रोगबाधिताः अभवन्। एषु ३९६ जनेषु सम्पर्केणैव रोगः अबाधत। एकः मृत्युवशं प्राप्तः। १८१ स्वास्थ्यभूताः अभवन्। 
  ह्यः राजधानीजनपदे २०१ जनाः रोगबाधिताः जाताः। एषु १७७ सम्पर्केण बाधिताः। जनानां जाग्रताभाव एव सम्पर्कव्यापनस्य हेतुरिति मुख्यमन्त्रिणा पिणरायिविजयेनोक्तम्।रोगप्रतिरोधप्रक्रमेषु केषांचन नागरिकाणां उदासीनभावः महद्विपदे कारणं भविष्यतीति तेन निगदितम्। 
  राज्ये प्रथमतया एव रोगिणां संख्या ६०० अतीता। जूलाय् मासस्य दशमदिनाङ्कादारभ्य प्रतिदिनरुग्णसंख्या चतुर्शताधिका अासीत्। ह्यः एव ६०० अतीता। अनेन निखिला रोगबाधितसंख्या ८९३० प्राप्ता। ४४५४ जनाः इदानीं चिकित्सायां वर्तन्ते।