OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, July 17, 2020

'ला लीगा' मध्ये रयल् माड्रिड् जेता।
(कायिकम्)
  माड्रिड्(स्पेयिन्)> स्पानिष् लीग् पादकन्दुकक्रीडासपर्यायां 'ला लीगा' मध्ये रयल् माड्रिड् सङ्घः विजेता अभवत्। रयल् माड्रिड् कृते एका क्रीडा अपि अवशिष्यते इत्‍येतत् सङ्घस्य विजयमाधुर्यं वर्धयति। कोविड्१९ भीत्या मासत्रयात्मककालं यावत् क्रीडाः समापिताः आसन्। विरामात्परं पुनरारब्धे लीग्‌ मध्ये रयल् माड्रिड् असामान्यं प्रभावं प्राकटयत्। गतदिने २-१ इति क्रमे विय्यारल् उपरि प्राप्तः जयः रयल् माड्रिड् सङ्घस्य किरीटधारणं दृढम् अकरोत्।