OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, July 4, 2020

चीनसागरं प्रति विमानवाहिन्यः युद्धनौकाः च यू एस् राष्टेण प्रेषिताः। 
 
     वाषिङ्टण्> चीनेन सह तर्कवितर्के सति चीनसागरं प्रति विमानवाहिन्यः युद्धनौकाः च यू एस् राष्टेण प्रेषिताः। प्रदेशेस्मिन् चीनस्य अभ्यास प्रदर्शनवेलायमेव चीनस्यायं प्रक्रमः। यु. ए स्. एस् रोणाल्ड् रीगन्, यु. ए स्. एस्. निमिट्स् च सैनिकाभ्यासाय समागच्छति। यु. ए स्. एस् राष्ट्रेण सह व्यापरः तथा कोरोणव्यापन-सम्बन्धतया च तर्कवितर्काः अनुवर्तिते सन्दर्भे  चीनं प्रति निशितसन्देश दानाय भवति अयं प्रक्रमः इति अनुमीयते। सुरक्षायाः कृते सुस्थिरतायाः कृते वयं प्रतिज्ञाबद्धाः इति अस्माकं सख्यदलानां पुरतः ख्यापनम् भवति उद्देश्यः इति यू.एस् रियर् अड्मिरल् जोर्ज् एम्. वैकोफ् उक्तवान्। वार्तेऽयं यू एस् वार्तामाध्यमैः आवेदिता। किन्तु अभ्यास-प्रदर्शनानि सगरस्य कस्मिन् प्रदेशे इति न सूचितानि। द्वे विमानवाहिनी नौके, चतस्रः युद्धनौकाः च भविष्यन्ति। व्यूहं परितः युद्धविमानानि च भविष्यन्ति इति 'वाल् स्ट्रीट् जेर्णल्' द्वारा आवेदितम् अस्ति।