OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, July 6, 2020

सामाजव्यापनभीतिः - केरलराजधान्यां त्रितलपिधानम्। 
 अनन्तपुरी >  अनन्तपुरीनगरे सम्पर्केण कोविड्रोगः वर्धते इत्यतः नगरसभावधौ अद्य आरभ्य सप्ताहपर्यन्तं त्रितलीयं पिधानं विहितम्। विधानसभामभिव्याप्य सर्वे सर्वकारीयकार्यालयाः पिधाय एव वर्तिष्यन्ते। विधानसभायां केवलं प्रधानाधिकारिणः एव भविष्यन्ति। 
  मुख्यमन्त्री अन्ये मन्त्रिणश्च स्वस्वगृहेषु वर्तमानाः कर्मनिरताः भविष्यन्ति। जनाः गृहेभ्यो बहिर्गन्तुं नार्हन्ति। गतसम्पूर्णपिधानकालमपेक्ष्य कर्कशानि नियन्त्रणान्येव विधास्यन्ति। 
  ह्यः केरले २२५ कोविड्रोगिणः नूतनतया अजायन्त। तेषु ३८ सम्पर्केण रोगबाधिताः सन्ति। अनन्तपुर्यां २२ जनाः सम्पर्कबाधिताः सन्ति।