OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, July 13, 2020

केरले कोविड्बाधितानां प्रतिदिनसंख्या चतुर्शताधिका। 
अनन्तपुरी >  केरले कोविड्व्यापनम् आशङ्काजनकं वर्तते। गतदिनत्रयं यावत् प्रतिदिनं रोगबाधितानां संख्या ४००अधिकतया तिष्ठति।प्रतिदिनं वर्धमानः च। ह्यः कोविड्बाधिताः ४३५ आसन्। तत्र २०६ जनेषु सम्पर्केणैव रोगः बाधितः। 
  आहत्य रोगबाधिताः ७८७३ जाताः। इदानीं चिकित्सायां ३७४३ रुग्णाः वर्तन्ते। ४०९५ विरुजः अभवन्। मरणानि तु ३१ । 
   एरणाकुलं, तिरुवनन्तपुरं ,मलप्पुरं जनपदेषु अतितीव्रमण्डलानि बहूनि वर्तन्ते। एरणाकुले आलुवा, चेल्लानं , पेरुम्पावूर् प्रदेशाः ,कोच्चीनगरस्थे केचन अंशाः, अनन्तपुरीनगरं, पून्तुरा समुद्रतटग्रामः, मलप्पुरं जिल्लायां पोन्नानी प्रविश्या च अतितीव्रमण्डलेषु अन्तर्भवन्ति।