OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, July 7, 2020

कायिकम्- क्रिकेट् स्पर्धा श्वः आरभ्यते।
लण्टण्> चतुर्णां मासानां विरामात्परं कायिकलोके पुनरपि क्रिकेट् वसन्तः। कोविड्भीत्या अवसिताः क्रिकेट् स्पर्धाः श्वः आरभ्य कायिकलोके सजीवाः भविष्यन्ति। इङ्ग्लण्ट्-वेस्ट् इन्टीस् दलयोर्मध्ये एव स्पर्धाः वर्तन्ते। प्रथमटेस्ट्स्पर्धा श्वः भारतीयसमये मध्याह्नात्परं ३.३० तः आरभ्यते। सताम्प्टण् मध्ये भवति स्पर्धा। किन्तु मैतानमागत्य साक्षात् स्पर्धां द्रष्टुं क्रिकेट्प्रेमिणां कृते अनुमतिः नास्ति। कोविड् जाग्रतानिर्देशान् परिपाल्य एव स्पर्धाः आयोजिताः वर्तन्ते। तथापि दूरदर्शने सोणि सिक्स् मध्ये यथासमयं स्पर्धां द्रष्टुम् अवसरः वर्तते च।