OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, July 12, 2020

अमिताभबच्चः पुत्रश्च कोविड्बाधितौ। 
अमिताभ बच्चः। 
महाराष्ट्रे कोविड्बाधिताः द्विलक्षाधिकाः, मृत्युः दशसहस्रमुपयाति। 
मुम्बई >  प्रशस्तः 'बोलिवुड्'चलच्चित्रनटः अमिताभबच्चः तस्य पुत्रः अभिनेता च अभिषेकबच्चः च कोविड्रोगबीधिताविति दृढीकृतम्। द्वावपि मुम्बय्यां नानावती आतुरालयं प्रवेशितौ। तयोः स्वास्थ्यावस्था शुभदायकी इति अातुरालयाधिकृतैः सूचितम्। 
  कोरोणाबाधावृत्तान्तम् अमिताभबच्चः स्वयमेव ट्विट्टर् द्वारा विज्ञापितवान्। अन्येषां परिवाराङ्गानां स्रवाः अपि शोधनाय स्वीकृताः। सर्वैः फलमाकांक्षते। 
  महाराष्ट्रे कोविड्बाधिताः २,३८,४६१ जाताः। मृत्युसंख्या ९८९३ अभवत्। किन्तु धारावीनामकस्थाने कोविड्व्यापनं नियन्त्रणाधीनं वर्तते।