"सहैव स्मः" - वयनाटं सामालिङ्ग्य समाश्वास्य प्रधानमन्त्री। 
वयनाट् दुरन्तं चक्षुभ्यां हृदयेन च प्रत्यभिज्ञाय नरेन्द्रमोदी। 
|  | 
| प्रधानमन्त्री नरेन्द्रमोदी मुख्यमन्त्रिणा सह उदग्रयाने तुरन्तक्षेत्रम् अभिवीक्ष्यति। | 
केन्द्रसर्वकारेण सर्वमपि साहाय्यं वाग्दत्तम्। धनराशेरभावेन प्रतिबन्धो न भविष्यति। 
छात्राणां विद्याभ्यासाय दुरन्तातिजीवितानां जीवनोपाधिप्राप्तये च सविशेषपरिगणना। 
|  | 
| प्रधानमन्त्री दुरन्तप्रदेशे। समीप सुरेष् गोपिः, अन्ये अधिकारिणः च। | 
वयनाट्> वयनाट् भूविच्छेददुरन्तस्य अतिभीषणं याथातथ्यं साक्षात् प्रत्यभिज्ञातुं राष्ट्रस्य प्रधानमन्त्री नरेन्द्रमोदी ह्यः दुरन्तप्रदेशं सम्प्राप्तवान्। वयनाट् जनपदे सार्धपञ्चहोरापर्यन्तं स्वसान्निध्यं कुर्वन्  प्रधानमन्त्री सर्वां दुरन्तव्याप्तिं उदग्रयाने अटन् अभिवीक्षितवान्। ततः  मुण्टक्कै , चूरल् मला इत्यादीनि दुष्प्रभावितस्थानानि राज्यस्य  उन्नताधिकारिभिः सह पद्भ्यां सञ्चरन् साक्षात् प्रत्यभिज्ञातवान्। 
  ततः समाश्वासशिबिराणि आतुरालयं च सन्दर्श्य तत्रस्थान् दुष्प्रभावाधीनान् प्रति भाषणं कृत्वा तान् समाश्वास्य जीवनप्रक्रियायां  धैर्यं प्रचोदनं च दत्तवान्। अनन्तरं जनपदकार्यालये सम्पन्ने अवलोकनसमित्याः उपवेशने भागं स्वीकृत्य केरलसर्वकाराय केन्द्रसर्वकारस्य पक्षतः  बहुविधसाहाय्यं भविष्यतीति दृढतां अदाच्च। 
  मुख्यमन्त्री पिणरायि विजयः, केन्द्रसहमन्त्री सुरेष् गोपिः, राज्यस्य कार्यकर्तृप्रमुखः वि वेणुः, ए डि जि पी पदस्थः अजित् कुमारः इत्यादयः प्रधानमन्त्रिणं अन्वगच्छन्।