OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, August 3, 2024

 वयनाट् दुरन्ते साह्याभ्यर्थनां कुर्वन्ति ओक्स्फोर्ड् विश्वविद्यालयछात्राः।

ओक्स्फोर्ड् विश्वविद्यलयस्य इन्टेण्षिप् छात्राः तृशूरस्थस्य इन्मैन्ड् आतुरालयस्य पुरतः।

तृश्शूर्> केरले वयनाट् जनपदे दुरापन्ने भूस्खलनदुरन्ते सर्वस्वं विनष्टीभूतानां जनानाम् अतिजीवनपरियोजनायै विदेशराष्ट्राणि प्रति साहाय्यं अभ्यर्थयन्ति तिस्रः विदेशछात्राः। 

   ओक्स्फोर्ड् विश्वविद्यालयात् 'इन्टेण्षिप्' नामकपाठ्यप्रवर्तनाय तृश्शूरस्थं 'इन्मैन्ड्' इति संस्थां प्राप्तवत्यः अमेलिया रोक्, षार्लट् सतर्लन्ट्, मिल्लिसन्ट् क्रू इत्येताः छात्राः एव सामाजिकमाध्यमेन साह्यमभ्यर्थितवत्यः। ताभिः  'रील्' रूपेण सज्जीकृता अर्थना विदेशराष्ट्रेषु प्रचरन्ति।