OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, August 13, 2024

 रेफात् अहम्मदः बङ्गलादेशस्य सर्वोच्चन्यायाधिपः।

धाका>  बङ्गलादेशस्य २५ तमः सर्वोच्चन्यायाधिपरूपेण सयीद् रेफात् अहम्मदः शपथवाचनं कृत्वा पदमारूढवान्। राष्ट्रपतेः औद्योग्कभवने सम्पन्ने कार्यक्रमे राष्ट्रपतिः मुहम्मद षहाबुदीनः शपथं कारितवान्। 

  विद्यार्थिप्रक्षोभहेतुतया प्रधानमन्त्रिपदं त्यक्त्वा पलायितवत्याः षैक् हसीनायाः स्थाने नोबल् पुरस्कारजेता मुहम्मद यूनुसः अधिकारं प्राप्तवान्।