OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, August 18, 2024

 वयनाट् भूस्खलनं - १२०० कोटिरूप्यकाणां नष्टः इति सर्वकारः। 

कोच्ची> जूलै त्रिंशे दिनाङ्के प्रत्युषसि वयनाट् जनपदस्थे मुण्टक्कै, चूरल् मला, अट्टमला प्रदेशेषु  दुरापन्ने भूस्खलनेन प्राथमिकगणनामनुसृत्य १२०० कोटिरूप्यकाणां विनाशः जात इति केरलसर्वकारेण उच्चन्यायालयं प्रति निवेदितम्। १५५५ गृहाणि सम्पूर्णतया वासाय अयोग्यानि जातानि। दुरन्ते २३१ मरणानि स्थिरीकृतानि। १२८ संख्याकाः इदानीमपि अदृष्टाः वर्तन्ते। २१२ शरीरावशिष्टानि अधिगतानि।  प्रत्यनभिज्ञातानि ५३ मृतशरीराणि सम्पूर्णादरेण अन्त्याञ्जलिं समर्प्य संस्कृतानि। 

www.samprativartah.in

   ६२६ हेक्टरपरिमितानां स्थानानां कृषिः विनाशिताः। त्रयः सेतवः, १३६ सर्वकारीयभवनानि, द्वौ विद्यालयौ, १. ५ कि मी परिमितं मार्गः, १२४ कि मी दीर्घयुक्तं विद्युत्संविधानं, २२६ परिपालितमृगाः इत्यादीनि विनष्टानि विनाशितानि च।