OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, August 8, 2024

 अधिकभारः - विनेष फोगट् अयोग्या। 


पारीस्> ओलिम्पिक्स् महोत्सवे भारताय सुवर्णपतकं प्रतीक्षमाणा  मल्लयुद्धवीरा विनेष फोगट् अन्तिमस्पर्धायाः पूर्वं कृतायां भारपरिशोधनायाम् अधिकभारत्वेन अयोग्या इति प्रख्यापितम्। ५०किलोग्रां सामान्यमल्लक्रीडायामेव सा स्पर्धितवती। सा अन्तिमचरणं प्रविवेश च। किन्तु ह्यः विधत्तायां परिशोधनायां तस्याः शरीरभारं  १०० ग्राम् मितं अधिकं दृष्टम्। 

  अनेन सर्वेभ्यः पतकाधिकारेभ्यः सा अन्ताराष्ट्रिय ओलिम्पिक्स् समित्या निष्कासिता। विनेषेण पराजिता क्यूबायाः युस् नैलिस् अन्तिमचरणे स्पर्धिष्यति।