OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, August 21, 2024

 नवदिल्ल्यां विस्फोटकभीषा। महाविक्रयशालाः बन्धिताः।

   नवदिल्ली> दिल्लीनगरे वर्तमानासु महाविक्रयशालासु विस्फोटकभीषा दुरापन्ना। चाणक्यमाल्, सेलक्ट्, अम्बियन्स् माल्, सि एल् एफ्, सिनि पोलीस्, पसफिक्माल्, प्रेमस् होस्पिट्टल्, यूणिट्टि ग्रुप् इति स्थानेषु कतिपयहोरानन्तरं महाविस्फोटः भविष्यति इति सन्देशः एव लब्धः। तदा महाविक्रयशालायाः अधिकारिणः विना विलम्बम् आरक्षकेभ्यः साहाय्यं प्रार्थितवन्तः। आरक्षकाः अग्निशमनसेना च समागत्य अन्वेषणम् अकुर्वन्। किन्तु विस्फोटकसंबद्धः कोऽपि अंशः न लब्धः। अणुप्रैष (Email) द्वारा लब्धः भीषासन्देशः कुतः प्रेषितः इति ज्ञातुम् अन्वेषणम् आरब्धम्। www.samprativartah.in