OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, August 2, 2024

 वयनाट् भूस्खलनदुरन्तः - ऊर्जितान्वेषणम् अनुवर्तते। 

दुरन्तदृश्यम्। 

बैलि सेतुः सुसज्जः;  अन्वेषणाय ४० संघाः।

मुण्टक्कै> वयनाट् भूस्खलनदुरन्तस्य चतुर्थे दिने प्राणसहितेभ्यः दुरन्ताधीनेभ्यः अन्वेषणं प्रायः समाप्तम्। यतः सजीवः यःकोSपि नावशिष्यते इति सैनिकाधिकारिभिः निगदितम्। परं मृतशरीरान्वेषणमेव कार्यमिति तैः उक्तम्। अतः सर्वसन्नाहैः सैन्यं सुसज्जं वर्तते। 

   ह्यः बैलि सेतुः सुसज्जः अभवत्। तेन मार्गेण मुण्टक्कै प्रदेशे अन्वेषणाय आधुनिकोपकरानि यन्त्राणि च नेतुं शक्यते। 

  ४० संघैः विभज्य एव अद्यतनमन्वेषणम् आरब्धम्। प्रतिसंघे सैनिकाः, राष्ट्रियदुरन्तनिवारणसंघांगाः, अग्निरक्षाभटाः इत्येतान् विना वनविभागसेवकाः प्रदेशवासिनश्च अन्तर्भवन्ति। 

  इतःपर्यन्तं ३०० अधिकानि मृतशरीराणि अधिगतानि। अद्य एव ११ मृतशरीराणि दृष्टानि। ८५ जनाः आतुरालयेषु परिचर्यायां वर्तन्ते।