OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, August 18, 2024

 २०२२ तमवर्षस्य चलच्चित्रपुरस्काराः उद्घोषिताः। 

श्रृषभ षेट्टिः सर्वश्रेष्ठाभिनेता, नित्या मेनोनः, मानसी परेखः च अभिनेत्र्यौ, 'आट्टम्' सर्वश्रेष्ठचलच्चित्रं,  'कान्तार' श्रेष्ठं जनप्रियचित्रं, सूरज आर् बर्जात्यः सर्वश्रेष्ठः निदेशकः। 

नवदिल्ली> २०२२ तमसंवत्सरस्य राष्ट्रियचलच्चित्रपुरस्काराः प्रख्यापिताः। आनन्द एकर्षिः इत्यस्य  केरलीयस्य निदेशकत्वे साक्षात्कृतम् 'आट्टम्' इति चलच्चित्रं नैकेभ्यः पुरस्कारेभ्यः अर्हमभवत्। नाटकस्य जीवितस्य च समञ्जसमेलनेन विशिष्टमेतत् मलयालचलच्चित्रं 'फीचर्' विभागे श्रेष्ठतमं चित्रं , श्रेष्ठतमा पटकथा, श्रेष्ठतमं चित्रसंयोजनमित्येभिः पुरस्कारैः सम्मानितम्। 

www.samprativartah.in

   कान्तार इति कन्नडचलच्चित्रे अभिनयेन ऋषभ षेट्टिः श्रेष्ठः अभिनेता अभवत्। 'तिरुच्चित्रम्पलम्' इति तमिलचित्रेण नित्यामेनोनः श्रेष्ठा नटी अभवत्। कच् एक्स्प्रेस् इति गुजरातीचित्रेण मानसीपरेख् अपि श्रेष्ठा नटिपदं प्राप्ता। उञ्चायि इति हिन्दीचलनचित्रस्य निदेशकः सूरज आर् बर्जात्यः श्रेष्ठनिदेशकपुरस्कारेण सम्मानितः।