OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, August 8, 2024

 सङ्गीतलोके नवतारका'विर्भावः'।

आविर्भावनामकः  सप्तवयस्कः केरलीयः 'सोणि सूपर् स्टार् सिङ्गर्' विजेता। 

पुरस्कारेण सह आविर्भावः। 

मुम्बई > सप्तवयस्कः केरलीयः आविर्भावः सङ्गीतास्वादकानां मनसि नवविस्मयं कुर्वन् विराजते। सोणि टि वी इति हिन्दीप्रणाल्याः 'सोणि सूपर् स्टार् सिङ्गर् - ३' इति १४ वयःपर्यन्तानां बालकानां गानस्पर्धायां प्रथमस्थानं प्राप्य अयं बालकः केरलस्य च अभिमानमभवत्। गानावतरणपरम्परायाः अन्तिमे चरणे १४ वयःपर्यन्तैः १५ बालकैः सह स्पर्धयित्वा एव  अस्य किरीटोपलब्धिः।  १० लक्षरूप्यकाण्येन पुरस्कारराशिः। 

   केरले इटुक्की जनपदीययोः के एस् सजिमोन् सन्ध्यादम्पत्योः पुत्रः आविर्भावः सार्धप्रथमवयसि एव स्वस्य संगीतप्रागल्भ्यं कस्याश्चित् तेलुङ्क टि वी प्रणाल्याः याथातथ्यप्रदर्शने [Reality show] 'बेस्ट् एन्टर् टेयिनर्' पुरस्कारं लब्धवान्। तस्य ज्येष्ठसोदरी अनिर्विन्या तस्मिन् प्रदर्शने द्वितीयस्थानं प्राप च। ततः वर्षद्वयात् पूर्वं 'फ्लवेर्स्' इति कैरलीप्रणाल्याः 'टोप् सिङ्गर्' नामके याथातथ्यप्रदर्शने   'बाबुक्कुटन्' इति प्रेमास्पदनाम्ना सर्वेषां वात्सल्यभाजनमासीत्। 

  सोणिप्रणाल्याः प्रदर्शनपरम्परायां षारुख् खानेन अभिनीते 'रब्ने बना दी जोडी' इति चलच्चित्रे 'हो ले  हो ले ' इति गाने गीते गायकेन सुखवीन्दर सिंहेन 'गायकेषु षारुख् खानः' इति आविर्भावः प्रशंसितः। 'आजा मेरी जान्', 'मेरे रंग मैं', 'आजा षाम् होनायि' इत्येतानि गानानि गीत्वा एव सः दशलक्षरूप्यकयुक्तं प्रथमपुरस्कारं प्राप्तवान्। 

 परिवारेण सह एरणाकुलं जनपदस्थम्  अङ्कमालीनगरोपान्तम् अधिवसन् आविर्भावः महाकवि जि स्मारक सर्वकारविद्यालये प्रथमकक्ष्यायां शिक्षां समाप्य सोणि टि वि स्टार् सिंगर् प्रदर्शनार्थं मुम्बयीं गतवान्। इदानीं  विश्वज्योति पब्लिक् विद्यालये द्वितीयकक्ष्यां प्रवेशनमुपलब्धवान्।