OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, August 10, 2024

 ओलिम्पिक्स् भारतम्।

कुन्तप्रक्षेपे भारताय रजतं ; पुरुषाणां मल्लयुद्धे कांस्यम्। 

नीरज चोप्रः। 

पारीस्>  कुन्तप्रक्षेपस्य अन्तिमचरणे भारतस्य नीरज चोप्रः ८९. ४५ मीटर् प्रक्षिप्य रजतपतकं प्राप्तवान्। तस्य ६ प्रक्षेपोद्यमेषु पञ्च सदोषाः अभवन्। ऊरुपेशीनां पीडा स्वस्य प्रकटनम्  अबाधत इति तेन परं प्रस्तुतम्।  पाकिस्थानस्य अर्षाद नदीमाय सुवर्णम् अलभत। 

   पुरुषाणां 'फ्रीस्टैल्' इति मल्लयुद्धस्य ५७ किलो विभागे भारतस्य अमन् षेरावतः तृतीयस्थानं प्राप्य भारताय षष्ठं पतकम् उपलब्धवान्। प्यूर्टरिको देशस्य डारियन् क्रूस् नामकमेव सः पराजितवान्।